वंदे मातरम्, वंदे मातरम् ! सुजलाम्, सुफलाम्, मलयज शीतलाम्, शस्यश्यामलाम् मातरम्, वंदे मातरम् ! शुभ्रज्योत्सनाम् पुलकितयामिनीम्, फुल्लकुसुमित द्रुमदल शोभिनीम्, सुहासिनीम् सुमधुर भाषिणीम्, सुखदाम्, वरदाम्, मातरम् ! वंदे मातरम्, वंदे मातरम !